|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.42. अध्यायः 042
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
धृतराष्ट्र उवाच। 8-42-0x(4951)(56926)
तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय।
संशप्तकाः कथं पार्थं कथं कर्णं च पाण्डवाः॥ 8-42-1(56927)
एतद्विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यसि।
न हि तृप्यामि वीराणां शृण्वानो युधि विक्रमम्॥ 8-42-2(56928)
सञ्जय उवाच। 8-42-3x(4952)
तत्संस्थिमथो दृष्ट्वा प्रत्यमित्रं महद्बलम्।
प्रत्यव्यूहत्ततः कर्णो हितार्थं तनयस्य ते॥ 8-42-3(56929)
तत्सादिनागकलिलं पदातिरथसङ्कुलम्।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम्॥ 8-42-4(56930)
पारावतसवर्णाश्वश्चन्द्रसूर्यसमद्युतिः।
स पार्षतो बभौ धन्वी कालो विग्रहवानिव॥ 8-42-5(56931)
पार्षतं त्वभितस्तस्थुर्द्रौपदेया युयुत्सवः।
सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव॥ 8-42-6(56932)
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे।
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः॥ 8-42-7(56933)
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः।
विजये धृतसङ्कल्पा मृत्युं कृत्वानिवर्तनम्॥ 8-42-8(56934)
तदश्वसङ्घबहुलं पत्तिनागरथाकुलम्।
उदीर्यमाणं संरब्धं धनञ्जयमभिद्रवत्॥ 8-42-9(56935)
तदुद्यतं महत्सैन्यं सागरौघसमं जवे।
पार्थवेलां समासाद्य विष्ठितं समदृश्यत॥ 8-42-10(56936)
मृद्गन्तं शवर्षौघैर्द्रुतमर्जुनमार्दयत्॥ 8-42-11(56937)
स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना।
तस्यैव तु यथा राजन्निवातकवचैः सह॥ 8-42-12(56938)
रथानश्वान्ध्वजान्नागान्पत्तीन्गजगतानपि।
इषून्धनूंषि खङ्गांश्च चक्राणि च परश्वथान्॥ 8-42-13(56939)
सायुधानुद्यतान्बाहून्विविधान्यायुधानि च।
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः॥ 8-42-14(56940)
तस्मिन्सैन्यमहावर्ते पातालतलसन्निभे।
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा॥ 8-42-15(56941)
स पुरस्तादरीन्हत्वा पुनरुत्तरतोऽवधीत्।
दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव॥ 8-42-16(56942)
अथ पाञ्चालचेदीनां सृढ्जयानां च मारिष।
त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः॥ 8-42-17(56943)
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः।
हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः॥ 8-42-18(56944)
कोसलैः काश्यमत्स्यैश्च कारूशैः केकयैरपि।
शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः॥ 8-42-19(56945)
तेषामन्तकरं युद्धं देहपाप्मविनाशनम्।
क्षत्रविट्शूद्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम्॥ 8-42-20(56946)
दुर्योधनोऽथ सहितो भ्रातृभिर्भरतर्षभ।
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः॥ 8-42-21(56947)
पाण्डवैः सह पाञ्चालैश्चेदिभिः सात्यकेन च।
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत्॥ 8-42-22(56948)
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम्।
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत्॥ 8-42-23(56949)
विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः।
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्॥ 8-42-24(56950)
तद्विगाह्य महानीकं सूतपुत्रो महारथः।
नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम्॥ 8-42-25(56951)
शोणितोदां क्षुण्णमत्स्थां नागनक्रदुरत्ययाम्।
मांलमज्जाकर्दमिनीं चक्रकूर्ममहोडुपाम्॥ 8-42-26(56952)
पातितैर्मेघसङ्काशैस्तत्रतत्र महाद्विपैः।
अशनीभिरिव ध्वस्ता नदी राजन्विराजते॥ 8-42-27(56953)
तां शरोर्मिमहावर्तां छत्रहंससमाकुलाम्।
तनुत्रोष्णीषसङ्घाटामस्थिपाषाणसङ्कुलाम्॥ 8-42-28(56954)
अपारामनपारां च शङ्खदुन्दुभिघोषिणीम्।
रौद्रां नदीं महाराज रजसा सर्वतोवृताम्॥ 8-42-29(56955)
अतितीक्ष्णां नराकीर्णां नदीमन्तकगामिनीम्।
समं च विषमं चैव समायान्तीं महाभयाम्॥ 8-42-30(56956)
आकुलाश्चात्र सीदन्ति नराः शोणितकर्दमे।
नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः॥ 8-42-31(56957)
ततस्ते तत्रतत्रैव प्रचरन्तो महानदीम्।
विचेरुः सर्वतो योधा नौवारणमहारथैः॥ 8-42-32(56958)
शोणितेन समं राजन्कृतमासीत्समन्ततः।
नदीवेगैर्यथा भूमिस्तद्वदासीद्विशापते॥ 8-42-33(56959)
एवं भारत सङ्ग्रामो नरवाजिगजक्षयः।
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत्॥ ॥ 8-42-34(56960)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः॥ 42 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-42-20 क्षत्रविठ्शूद्रवीराणामित्यनेन ब्राह्मणादृते युद्धं सर्वेषां श्रेयस्करमित्यर्थः॥ 8-42-24 युक्त्वा योजयित्वा॥ 8-42-42 द्विचत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|